प्रगतवर्गाः
Advanced Classes
प्रगतवर्गाः
Advanced Classes
We are pleased to announce classes and lectures on various shastras, taught by experts through the medium of Sanskrit. These may or may not be part of other formal programs that we may offer. For any questions, please contact dlp@samskritabharatiusa.org.
Upcoming or Active Classes/Lectures
समासपरिचयवर्गः
अयि भोः संस्कृतशास्त्रसेविनः !
गद्यपद्यात्मके सुविशाले संस्कृतवाङ्मयाब्धौ प्राप्यमाणैः ज्ञानामृतकणैः स्वजीवनं सार्थकीकर्तुकामेभ्यः भवद्भ्यः भवतीभ्यश्च संस्कृतभारतीयं समासपरिचयात्मकं नूतनवर्गम् आरब्धुं समुत्सुकास्ति| यन्माध्यमेन अत्रभवन्तः भवत्यश्च सामान्यतया सर्वविधसमासानां सोदाहरणं परिचयं प्राप्य समासप्रक्रियामपि ज्ञातुं शक्ष्यन्ति|
अतः यथासमयं वर्गम् आगत्य समासविषयकज्ञानेन लाभान्विताः भवन्तु तत्रभवन्तो भवत्यः इति निवेदयति भवतामियं संस्कृतभारती |
वर्गस्य अवधिः - August 14 तः - September 27 पर्यन्तम् | (No Class on Sept 4th & 6th)
वर्गदिनम् /वर्गसमयः शुक्रवासरे सायं 9:00 PM तः 10:00 PM पर्यन्तम् (पूर्वतटीयसमयानुसारम् )
भानुवासरे प्रातः 10:30 AM तः 11:30 AM पर्यन्तम् (पूर्वतटीयसमयानुसारम् )
अर्हता - संस्कृतसम्भाषणावगमनम्, सामान्यतः संस्कृतव्याकरणेन परिचयः, सन्धिज्ञानं च|
If you have any questions, please send a note to dlp@samskritabharatiusa.org. The Zoom details will be sent one day prior to the first class. Please make sure to check your 'spam' folder in your email.
वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा
भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठात् व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति|
Medium of instruction: Samskritam
शुल्कम् (Fee): $30.00
Registration Link: Click Here to register